वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥५४१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥५४१॥

मन्त्र उच्चारण
पद पाठ

अ꣣या꣢ । प꣣वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । माँ꣣श्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣣ति꣢म् । पु꣣रुमे꣡धाः꣢ । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥५४१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 541 | (कौथोम) 6 » 1 » 5 » 9 | (रानायाणीय) 5 » 7 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (इन्दो) रस से आर्द्र करनेवाले परमात्मन् ! आप (अया) इस (पवा) प्रवाहमयी धारा के साथ (एना) इन (वसूनि) सत्य, अहिंसा आदि ऐश्वर्यों को (पवस्व) क्षरित करो। (मांश्चत्वे) स्तुतिशब्दयुक्त (सरसि) मेरे हृदय-सरोवर में (प्र धन्व) भली-भाँति आओ, (यस्य) जिन आपका (ब्रध्नः चित्) महान् (वातः) वायु (न) जैसे (जूतिम्) वेग को (धात्) धारण करता है, वैसे ही (पुरुमेधाः चित्) बुद्धिमान् स्तोता (तकवे) कर्मयोग के लिए (नरम्) नेतृत्व के गुण को (धात्) धारण करता है ॥९॥ इस मन्त्र में ‘वातो न जूतिम्’ आदि में उपमालङ्कार है। ‘पवा, पव’ में छेकानुप्रास है ॥९॥

भावार्थभाषाः -

जैसे परमेश्वर से रचित महान् वायु तीव्र वेग को धारण करता है, वैसे ही परमेश्वर का स्तोता महान् नेतृत्व-गुण को धारण करता है ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमः परमात्मा प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्दो) रसेनार्द्रीकर्तः परमात्मन् ! त्वम् (अया) अनया (पवा२) प्रवाहवत्या धारया (एना) एनानि वसूनि सत्याहिंसाप्रभृतीनि ऐश्वर्याणि (पवस्व) क्षर। (मांश्चत्वे३) मीयन्ते शब्द्यन्ते इति माः शब्दाः, मान् स्तुतिशब्दान् चातयति गमयति उत्थापयतीति मांश्चत्वं तस्मिन्, स्तुतिशब्दयुक्ते इत्यर्थः माङ् माने शब्दे च। चततिः गतिकर्मा। निघं० २।१४। (सरसि) मम हृदयसरोवरे (प्र धन्व) प्रकर्षेण याहि। धन्वतिः गतिकर्मा। निघं० २।१४। (यस्य) यस्य तव (ब्रध्नः चित्) महान्। ब्रध्न इति महन्नाम। निघं० ३।३। (वातः) वायुः (न) यथा (जूतिम्) वेगम्। जु गतौ धातोः ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ अ० ३।३।९७ इति क्तिनि दीर्घत्वं निपात्यते, उदात्तः स्वरश्च। (धात्) दधाति, तथा (पुरुमेधाः चित्) बहुप्रज्ञः स्तोता। अत्र नित्यमसिच् प्रजामेधयोः४। अ० ५।४।१२२ इति बहुव्रीहेः समासान्तः असिच् प्रत्ययः। ब्रध्नश्चित्, पुरुमेधाश्चित् इत्युभयत्रापि चिदिति पूजायां बोध्यम्। (तकवे५) गमनाय कर्मयोगाय इत्यर्थः। तकतिः गतिकर्मा। निघं० २।१४। (नरम्) नेतृत्वगुणम् (धात्) धारयति। दधातेर्लडर्थे लुङि रूपम्। छान्दसत्वादडागमाभावः ॥९॥ अत्र ‘वातो न जूतिम्’ इत्युपमालङ्कारः। ‘पवा, पव’ इति छेकानुप्रासः ॥९॥

भावार्थभाषाः -

यथा परमेश्वररचितो महान् वायुस्तीव्रवेगं धारयति, तथैव परमेश्वरस्य स्तोता नेतृत्वगुणं धारयति ॥९॥

टिप्पणी: १. ऋ० ९।९७।५२ ‘ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधाश्चित् तकवे नरं दात्’ इत्युत्तरार्धपाठः। साम० ११०४। २. पूञ् पवने (क्र्यादिः)। ‘अन्येभ्योऽपि दृश्यते’ पा० ३।२।१०१ इति विन् प्रत्ययः। आर्धधातुकलक्षणो गुणः। ‘सावेकाचः’ पा० ६।१।१६९ इति तृतीयाया उदात्तत्वम्—इति सा०। ३. मांश्चत्वे अश्वे आरूढः, मांश्चत्वे वा सरसि—इति वि०। मांश्चत्व इत्यश्वनाम। निघं० १।४। अभिमन्यमानान् शत्रून् चातयति नाशयति इति मांश्चत्वम्, तस्मिन् सरसि कलशे प्रधन्व प्रगच्छ—इति भ०। मन्यमानानां चातके सरसि उदके वसतीवर्याख्ये कलशे—इति सा०। ४. यद्यपि तस्मिन् सूत्रे उपरिष्टनात् सूत्रात् ‘नञ् दुःसुभ्यः’ इत्यनुवर्तितुमुचितम्, तथापि “नित्यग्रहणादन्यत्रापि भवतीति सूच्यते” इति काशिकावृत्तिः। उदाहृतं च तत्र, ‘श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः। अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी’ इति। ५. तकतिर्गतिकर्मसु पठितः, अस्मादौणादिक उन् प्रत्ययः—इति सा०।